||Sundarakanda ||

|| Sarga 5||( Only Slokas in Devanagari) )

Sanskrit Sloka text in Devanagari, Gujarati, Kannada, Telugu , and English

||om tat sat||

सुन्दरकाण्ड्.
अथ पंचम स्सर्गः

ततस्स मध्यंगत मंशुमन्तम् ज्योत्स्नावितानं महदुद्वमन्तम्।
ददर्श धीमान्दिवि भानुमन्तम् गोष्ठे वृषं मत्तमिव भ्रमन्तम्॥1||

स॥ ततः सः धीमान् मध्यं गतं अंशुमन्तं उद्यमंतं महत् ज्योत्स्नावितानम् दिवि भानुमंतं गोष्ठे भ्रमन्तं वृषमिव ददर्श॥

Then that intelligent Hanuman saw the luminous lord, the Moon, rise to the middle of the sky spreading a canopy of light like the Sun in the sky. He was looking like an intoxicated mighty bull in the cowshed (amidst a herd of cows)

लोकस्य पापानि विनाशयन्तम् महोदधिं चापि समेधयन्तम्।
भूतानि सर्वाणि विराजयन्तम् ददर्श शीतांशुमथाभियान्तम्॥2||

स॥ अथ अभियान्तं लोकस्य पापानि विनाशयन्तं महोदद्धिं समेधयन्तं चापि सर्वाणि भूतानि विराजयन्तं शीतांशुं ददर्श॥

Then the Hanuman moving forward saw the Moon spreading his light as if to ward off the worlds agony, augmenting the ocean to swell, and illuminating all the creatures.

या भाति लक्श्मी र्भुविमन्दरस्था तदा प्रदोषेशु च सागरस्था।
तथैव तोयेषु चपुष्करस्था रराज सा चारुनिशाकरस्था ॥3||

स॥ भुवि या मन्दरस्था लक्ष्मीः भाति तथा प्रदोषेषु सागरस्था तथा तोयेषु पुष्करस्था सा चारुनिशाकरतस्था ददर्श॥

The splendor of the Moon was seen like the splendor found on the Mandara mountain , like the splendor found on the ocean at dusk, like the splendor found in the water on the lotus leaves in the lakes.

हंसोयथा राजत पञ्जरस्थः सिंहो यथा मंदरकंदरस्थः।
वीरो यथा गर्वित कुञ्जरस्थः चंद्रोऽपि बभ्राज तथांबरस्थः॥4||

स॥यथा राजत पञ्जरस्थः हंसः यथा मंदरकन्दरस्थः सिंहः यथा गर्वित कुञ्जरस्थः वीरः तथा अंबरस्थः चंद्रः अपि भभ्राज ॥

The Moon shone like the swan in the silver cage, like the Lion in the cave on the mountain Mandara, like the proud hero sitting on an elephant.

स्थितः ककुद्मानिव तीक्ष्ण शृङ्गो महाचलश्वेत इवोच्छशृङ्गः।
हस्तीव जांबूनद बद्धशृङ्गो रराज चंद्रः परिपूर्णशृङ्गः॥5||

स॥ परिपूर्ण शृङ्गः चंद्रः तीक्ष्ण शृङ्गः स्थितः ककुद्मानिव, श्वेतः उच्चशृङ्गः महाचलः (इव) जाम्बूनद बद्ध शृङ्गः हस्ति इव रराज॥

The full moon with its horn like spot was looking like a bull with sharp horns, like the Himalayas with its tall peaks, like an elephant with its gold plated tusks.

विनष्ट शीतांबुतुषार पङ्को महाग्रहग्राह विनष्ठ पङ्कः।
प्रकाश लक्ष्म्याश्रयनिर्मलाङ्को रराज चन्द्रो भगवान् शशाङ्कः ॥6||

 

स॥विनष्ट शीतांबु तुषार पङ्कः महाग्रहाग्राह विनष्ट पङ्कः प्रकाश लक्ष्म्याश्रय निर्मलांकः शशाङ्कः भगवान् चन्द्रः रराज॥

The Moon with its stain shone with graceful radiance like the shining water drops on the lotus leaf rid of its dew, or the one resplendent with the removal of moral impurities by the great planets.

शिलातलं प्राप्य यथा मृगेन्द्रो महारणं प्राप्य यथा गजेन्द्रः।
राज्यं समासाद्य यथा नरेन्द्रः तथाप्रकाशो विरराज चन्द्रः॥7||

स॥ शिलातलं प्राप्य यथा मृगेन्द्रः महारणं प्राप्य यथा गजेन्द्रः राज्यं समासाद्य यथा नरेण्द्रः तथा प्रकाशः चन्द्रः रराज॥

The Moon shone bright like the lion, the king of animals on the top of a rock. He shone like the lord of the elephants in the deep forest, and like the king who regained his kingdom.

प्रकाश चन्द्रोदय नष्ठदोषः प्रवृत्तरक्षः पिसिताशदोषः।
रामाभिरामेरितिचित्तदोषः स्वर्ग प्रकाशो भगवान् प्रदोषः॥8||
स॥ यदा भगवान् प्रदोषः स्वर्गप्रकाशः तदा चंद्रोदय प्रकाशात् (तिमिर) दोषः नष्टः प्रवृत्त रक्षः पिशिताशदोषः रामाभिरामेरिति चित्त दोषः (भवति)॥

As the Moon at dusk spread his brilliance, then the darkness was dispelled , dark deeds of cannibals disappear, and the love instincts of ladies lost in anger of love are incited.

तंत्रीस्वनाः कर्णसुखाः प्रवृत्ताः स्वपयंति नार्यः पतिभिः सुवृत्ता।
नक्तांचरा श्चापि तथा प्रवृत्ता निहर्तु मत्यद्भुतरौद्रवृत्ताः॥9||

 

स॥ तंत्री स्वनाः कर्णसुखाः प्रवृत्ताः । सुवृताः नार्यः पतिभिः स्वपन्ति। नक्तं चराः अत्यत्भुत रौद्रवृत्ताः अपि विहर्तुं प्रवृत्ताः॥

Sounds of instruments pleasing to the ears are being heard. Chaste ladies are sleeping with their husbands. The night creatures beagn to roam about exhibiting their arrogance.

मत्तप्रमत्तानि समाकुलानि रथाश्वभद्रासन संकुलानि।
वीरश्रियाचापि समाकुलानि ददर्श धीमान् स कपिः कुलानि॥10||

स॥ धीमान् वीरः हनुमान् सः श्रिया समाकुलानि कुलानि मत्तप्रमत्तानि च रथाश्वभद्रासन संकुलानि अपि ददर्श॥

Intelligent Hanuman saw in those prosperous houses demons intoxicated with wealth. He also saw chariots with comfortable seats drawn by horses ( in those houses).

परस्परं चाधिक मक्षिपन्ति भुजांश्च पीना नधिक्षिपन्ति।
मत्त प्रलापा नधि विक्षिपन्ति दृढानि चापानि चविक्षिपन्ति॥11||

स॥ (ते) परस्परं अधिकं अक्षिपन्ति । पीनान् भुजान् च अधिकं क्षिपन्ति । मत्तप्रलापान् अधि विक्षिपन्ति । मत्तानि अन्योन्यं अधिक्षिपन्ति च॥

They ( the Rakshasas in those prosperous houses) were intoxicated. They were blabbering ridiculing each other, They were boisterously patting each others shoulders and even quarrelling with each other in the intoxication.

रक्षांसि वक्षांसि च विक्षिपंति गात्राणी कान्तासु च विक्षिपंति ।
रूपाणि चित्राणि च विक्षिपंति धृढानि चापानि च विक्षिपंति॥12||

स॥ (ते) वक्षांसि विक्षिपन्ति कान्तासु गात्राणि विक्षिपन्ति च । रक्षांसि दृढानि चापानि विक्षिपन्ति । चित्राणि रूपाणि विक्षिपन्ति च॥

They are expanding their chests sportively touching their women. The Rakshasas drawing their strong bows were assuming wonderful forms.

ददर्श कान्ताश्च समालभंत्यः तथापराः तत्र पुनः स्वपन्त्यः।
सुरूपवक्त्राश्च तथा हसंत्यः क्रुद्धाः पराश्चापि विनिश्र्वसंत्यः॥13||

स॥ समालभंत्यः कान्ताः च तत्र अपराः पुनः स्वपन्त्यः। ते सुरूप वक्त्राः च। तथा हसंत्यः क्रुद्धाः च॥ अपराः विनिः श्वसंत्यः॥

Among women who collected there some were sleeping, some have beautiful countenance,some are angry and some are laughing, some others are sighing.

महागजैश्चापि तथा नदद्भिः सुपूजितैश्चापि तथा सुसद्भिः।
रराज वीरैश्च विनिश्र्वसद्भिः ह्रदोभुजङ्गै रिव निश्र्वसद्भिः॥14||

 

स॥ तथा नदद्भिः सुपूजितैः महगजैः च , ह्रदो निःश्व्रसद्भिः भुजंगैरिव विनिःश्र्वसद्भिः वीरैः च रराज॥

There were huge respected elephants making sounds. There were warriors also sighing like snakes hissing in a lake.

बुद्धि प्रधानान् रुचिराभिदानान् संश्रद्धधानान् जगतः प्रधानान्।
नानाविधान् रुचिराभिदानान् ददर्श तस्यां पुरियातुधानान्॥15||

स॥ तस्याम् पुरीम् जगतः प्रधानान् बुद्धिप्रधानान् रुचिराभिदानान् संश्रद्धधानान् नाना विधानान् रुचिराभिधानान् यातुधानान् ददर्श॥

In that city Hanuman saw intellectuals who were sweet in expression who had faith in religion, who were pre eminent ones in the world, heroes of different kinds, as well those who follow good practices.

ननन्द दृष्ट्वा स च तान् सुरूपान् नानागुणानात्मगुणानुरूपान् ।
विद्योतमानान् स तदानुरूपान् ददर्श कांश्चिच्चपुनर्विरूपान्॥16||

स॥ सः सुरूपान् नानागुणान् आत्मगुणानुरूपां विद्योतमानान् तान् दृष्ट्वा सः ननन्द । तदा कश्चित् विरूपान् अनुरूपान् च ददर्श ॥

Seeing radiant handsome ones with many virtues, whose appearance reflected their virtues Hanuman was happy. He also saw ugly and thiose with similar forms too.

ततो वरार्हाः सुविशुद्धभावाः तेषां प्रियः तत्र महानुभावाः।
प्रियेषु पानेषु च सक्तभावा ददर्श तारा इव सुप्रभावाः॥17||

स॥ ततः तत्र वरार्हाः विशुद्धभावाः महानुभावाः प्रियेषु पानेषु च ददर्श। तेषां तारा इव सक्तभावाः सुप्रभावाः स्त्रियः ददर्श॥

He saw women adorned with choicest clothes, women whose minds are pure and attached to their lovers, and drinks . He also saw gentle ones among them shining brightly like the stars.

श्रियाज्वलंती स्त्रपयोप गुढा यथा विहङ्गाः कुशुमोपगूढाः।
ददर्श काश्चित्प्रमदोपगूढाः यथा विहङ्गाः कुसुमोपगूढाः ॥18||

स॥उपगूढाः श्रिया ज्वलंतीः त्रपया , तथैव निशीथकाले रमणोपगूढाः काश्चित् कुसुमोपगूढाः प्रमदोपगूढः विहङ्गाः यथा (स्त्रियः) ददर्श॥

Hanuman saw women embraced by their lovers being shy yet shining brightly. He also saw women adorned with flowers embraced by their beloveds being joyful like free birds.

अन्याः पुनर्हत्म्यतलोपविष्टास्तत्र प्रियाङ्केषु सुखोपविष्टाः ।
भर्तुः प्रिया धर्म परा निविष्टा ददर्श धीमान्मदनाभि विष्टाः॥19||

स॥ धीमान् ( हनुमान्) हर्म्यतलोपविष्टाः प्रियांगेषु सुखोपविष्टाः प्रियाः मदनाभिविष्टाः अन्याः भर्तुः धर्मपराH निविष्टाः ददर्श॥
Intelligent Hanuman saw Rakshasa women on the terraces of the mansions sitting happily on the laps of their lovers overwhelmed with pleasure engaged in love. He saw others engaged in serving their husbands.

अपावृताः काञ्चनराजिवर्णाः काश्चित्परार्थ्याः तपनीयवर्णाः।
पुनश्च काश्चिच्चशलक्ष्मवर्णाः कांत प्रहीणा रुचिराङ्गवर्णाः॥20||

स॥ अपावृताः काञ्चन राजिवर्णाः परार्थ्याः तपनीयवर्णाः पुनश्च काश्चित् कान्तप्रहीणाः शशलक्ष्मवर्णाः काश्चित् रुचिरांग वर्णाः (ददर्श)॥

He saw some of golden hue without veil, some altruistic shining with polished gold, some pale looking separated from their husbands , and a few of attractive complexion.

ततः प्रियान्प्राप्य मनोभिरामाः सुप्रीतियुक्ताः प्रसमीक्ष्य रामाः।
गृहेषु हृष्टाः परमाभिरामाः हरिप्रवीरः स ददर्श रामाः॥21||

 

स॥ हरिप्रवीरः ततः गृहेषु प्रियान् प्राप्य मनोभिरामाः सुप्रीतियुक्ताः प्रसमीक्ष्यरामाः परमाभिरामाः हृष्टाः सः ददर्श ॥

In those houses that best among Vanaras, Hanuman saw some happy and delighted ones having obtained their husbands, also some ecstatic ones ecstatic on seeing the loved ones.

चन्द्रप्रकाशश्च हि वक्त्रमालाः वक्राक्षिपक्ष्माश्च सुनेत्रमालाः।
विभूषणानांच ददर्श मालाः शतह्रदानामिव चारुमालाः॥22||

स॥ चंद्रप्रकाशाः वक्त्रमालाश्छ वक्राक्षिपक्ष्माश्चसुनेत्रमालाः शतह्रदानाम् चारुमालाः विभूषणानाम् मालाः च ॥

He saw rows of faces radiating like Moon, rows of eyes with sidelong glances and graceful lashes, many wearing lovely ornaments resembling flashes of lightning.

नत्वेव सीतां परमाभिजाताम् पथिस्थिते राजकुले प्रजाताम्।
लतां प्रपुल्लामिव साधुजाताम् ददर्श तन्वीं मनसाभिजाताम्॥23||

 

स॥ (परंतु) राजकुले प्रजाताम् परमाभिजाताम् साधु जातां प्रफुल्लां लतां इव तन्वीं पथि स्थिते सीतां न ददर्श॥

(But) He could not see Sita the one born in a noble royal family, a delicate one like creeper, following the right path.

सनातने वर्त्मनि सन्निविष्टाम् रामेक्षणां तां मदनाभिविष्टाम्।
भर्तुर्मनः श्रीमदनुप्रविष्टाम् स्त्रीभ्यो वराभ्यश्च सदा विशिष्टाम्॥24||

स॥ सनातने वर्त्मनि सन्निविष्टां रामेक्षणां श्रीमत् भर्तुः मनः मदनाभिविष्टां वराभ्यः स्त्रीभ्यश्च अनुप्रविष्टां विशिष्टां तां न ददर्श॥

He did not see a lady with mind fixed in her husband, a lady of beautiful eyes, a lady abiding by the eternal good path compared to the wives present there.

उष्णार्दितां सानुसृतास्रकंठीं पुरा वरार्होत्तम निष्ककंठीम्।
सुजातपक्ष्मामभिरक्तकंठीम् वने प्रवृत्तामिव नीलकंठीम्॥25||

 

स॥ उष्णार्दितां सानुसृतास्रकंठीं पुरा वरार्होत्तम निष्ककंठीं सुजात पक्ष्मां अभिरक्त कंठीं वने अप्रवृत्तां नीलकंठीं इव तन्वीं (तां न ददर्श)

He did not see the lady shedding hot tears, whose throat is choked with incessant tears, whose neck was earlier wearing costly ornaments , who has beautiful eyelashes, who has sweet loving voice, who was earlier wandering in the forests.

अव्यक्त रेखामिव चंद्र रेखाम् पांसुप्रदिग्धा मिव हेमरेखाम्।
क्षतप्ररूढा मिव बाणरेखाम् वायुप्रभिन्नामिव मेघ रेखाम्॥26||

 

स॥ अव्यक्त रेखां चंद्ररेखामिव पांसुप्रदिग्धां हेम रेखां इव क्षतप्ररूढां बाणरेखामिव वायुप्रभिन्नां मेघरेखामिव (स राम पत्नीं न ददर्श)

She would be like an invisible ray like the rays of the moon, like a streak of gold invisible being covered with dust, like the scar of a superficially covered wound caused by an arrow, like a flake of cloud swept away bt the wind.

सीतामपश्यन् मनुजेश्वरस्य रामस्य पत्नीं वदतां वरस्य।
बभूव दुःखाभिहतः शिरस्य प्लवङ्गमो मंद इवा चिरस्य ॥27||

स॥ वदतां वरस्य मनुजेश्वरस्य रामस्य पत्नीं अचिरस्य अपश्यन् प्लवंगमः दुःखाभिहितः चिरस्य मंद इव बभूव॥

Not being able to see the wife of Lord Rama who is the best one among those who are good at speech, Hanuman hit by grief became slow for a while .

इत्यार्षे श्रीमद्रामायणे आदिकाव्ये वाल्मीकीये
चतुर्विंशत् सहस्रिकायां संहितायाम्
श्रीमत्सुन्दरकाण्डे पंचमस्सर्गः ॥

Thus ends the fifth sarga of Sundarakanda in Ramayana, the first ever poem of mankind composed by Maharshi Valmiki.
|| Om tat sat ||